ऊधः

सुधाव्याख्या

विति । वहति । ‘वह प्रापणे' (भ्वा० उ० से०) । उनत्ति ‘उन्दी क्लेदने’ (रु० प० से०) । असुन् (उ० ४.१८९) । ‘ऊधसोऽनङ् (५.४.१३१) इत्यादिनिर्देशादूधादेशः । ‘श्वेः सम्प्रसारणं च' (उ० ४.१९३) इत्यनुवृत्तौ ‘वहेर्धो दीर्घश्च' इत्यसुन्—इति मुकुटस्त्वपाणिनीयः ॥