धुरन्धरः

सुधाव्याख्या

धुरं धारयति । ‘संज्ञायां भृतॄवृजि-' (३.२.४६) इति खच् । ‘खचि ह्रस्वः’ (६.४.९४) । ‘वाचंयमपुरंदरौ च' (६.३.६९) इति चकारस्यानुक्तसमुच्चयार्थत्वादक् । ‘अरुर्द्विष-' (६.३.६७) इति मुम् ॥


प्रक्रिया

धातुः -


धृञ् धरणे
धृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, हेतुमति च 3.1.26
(धुर् + अम्) धार् + इ + खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
धुर + धार् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
धुर + धर् + अ - खचि ह्रस्वः 6.4.94
धुर + मुम् + धर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
धुर + म् + धर - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धुरंधरः - नश्चापदान्तस्य झलि 8.3.24
धुरन्धर - अनुस्वारस्य ययि परसवर्णः 8.4.58
धुरन्धर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धुरन्धर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धुरन्धर + रु - ससजुषो रुः 8.2.66
धुरन्धर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धुरन्धरः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D