भद्रः

सुधाव्याख्या

भन्दति (ते) । ‘भदि कल्याणे' (भ्वा० आ० से ०) । ‘ऋज्रेन्द्र-' (उ० २.२८) इति साधुः ।-‘स्फायितञ्चि-' (उ० ३.१३) इति रक् -इति तु मुकुटस्य प्रमादः । ‘भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः । काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे प्रसारिण्यां कट्फलानन्तयोरपि । त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे' (इति मेदिनी) ॥