पीयूष

सुधाव्याख्या

पीति । पीयति । पीय्यते अनेन वा । ‘पीयू प्रीतौ' (सौत्रः) । ‘पीयेरूषन्' (उ० ४.७६) ‘पीयूषं सप्तदिवसावधिक्षीरे तथामृते' इति विश्वमेदिन्यौ । मुकुटस्तु–‘पेयूषम्' इति पठति । तत्र बाहुलकाद्गुणः । यत्तु–पीयते इदम् । ‘पीङ् पाने’ (दि० आ० अ०) । ‘अन्येभ्योऽपि’ (३.२.७५) इति विच् । पेः पानकर्ता । ‘यूष हिंसायाम्' (भ्वा० आ० से०) इत्यतः इगुपधत्वात् कः (३.१.१३५) । यूषो नाशयिता । पेर्युषः इति व्याख्याताम् । तन्न । ‘इदम्' इति कर्मनिर्देशात् । कर्तरि विचो विधानात् । ‘इदम्' इति कर्तृनिर्देशश्चेत् । तर्हि ‘पानकर्तृनाशयितृ' इति वक्तुं युक्तम् ॥


प्रक्रिया

धातुः -


पीयू प्रीतौ
पीयू + ऊषन् – उणादि ४.७६ , हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पीयूष - अकः सवर्णे दीर्घः 6.1.101
x000D