उदश्वित्

सुधाव्याख्या

उदकेन श्वयति वर्धते । ‘टु ओ श्वि गतिवृद्ध्योः’ (भ्वा० प० से०) । क्विप् (३.२.७६) । तुक् (६. १.७१) । ‘उदकस्योदः संज्ञायाम्' (६.३.५७) । ‘उदश्वितः-' (४.२.१९) इति निर्देशादसम्प्रसारणम् ॥