दग्धिका

सुधाव्याख्या

दह्यते स्म । क्तः (३.२.१०२) । कुत्सिता दग्धा । ‘कुत्सिते (५.३.७४) इति कन् ॥


प्रक्रिया

धातुः -


दहँ भस्मीकरणे
दह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दह् + क्त - निष्ठा 3.2.102
दह् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दघ् + त - दादेर्धातोर्घः 8.2.32
दघ् + ध - झषस्तथोर्धोऽधः 8.2.40
दग् + ध - झलां जश् झशि 8.4.53
दग्ध + कन् - कुत्सिते 5.3.74
दग्ध + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दग्ध + इ + क - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
दग्धिक - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
दग्धिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
दग्धिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दग्धिका - अकः सवर्णे दीर्घः 6.1.101
दग्धिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दग्धिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दग्धिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D