पाक्यम्

सुधाव्याख्या

पेति । पच्यते । ‘ऋहलोर्ण्यत्' (३.१.१२४) । 'चजोः-’ (७.३.५२) इति कुत्वम् । पाके साधुः, इति वा । ‘तत्र साधुः' (४.४.९८) इति यत् ॥