वसुकम्

सुधाव्याख्या

वसु कायति । ‘कै शब्दे' (भ्वा० प० अ०) । ‘आतोऽनुप-' (३.२.३) इतिः कः । वस्वेव । यावादित्वात् (५.४.२९) कन् वा । वस्वस्त्यस्मिन् । व्रीह्यादित्वात् (५.२.११६) ठन् वा । ‘इसुसु-' (७.३.५१) इति कः । 'वसुकं रौमके, पुंसि शिवमल्ल्यर्कपर्णयोः' इति विश्वः (मेदिनी) । ‘वस्तकम्' इति पाठे वस्त इव । ‘इवे प्रतिकृतौ' (५.३.९६) इति कन् । अजगन्धित्वात् । ‘रौमके वस्तकं वसु' इति नाममाला ॥