अपामित्यकम्

सुधाव्याख्या

नीति । अपमानम् । ‘मेङ् प्रणिदाने’ (भ्वा० अ० अ०) । ‘उदीचां माङो व्यतीहारे’ (३.४.१९) इति क्त्वा । ‘कुगति-’ (२.२.१८) इति समासः । 'समासेऽनञ् (७.१.३७) इति ल्यबादेशः । ‘मयतेरिदन्यतरस्याम्’ (६.४.७०) इतीत्वम् । तुक् (६.१.७१) । ‘अपमित्य-’ आप्तम् । ‘अपमित्य-’ (४.४.२१) इति कक् ॥ ‘नियमात्’ इति ‘विभाषा गुणेऽस्त्रियाम्’ (२.३.२५) इति पञ्चमी ॥


प्रक्रिया

धातुः -


मेङ् प्रणिदाने
मे - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अप + मे + क्त्वा - उदीचां माङो व्यतीहारे 3.4.19
अप + मे + त्वा - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अप + मा + त्वा - आदेच उपदेशेऽशिति 6.1.45
अप + मा + त्वा - कुगतिप्रादयः 2.2.18
अप + मा + ल्य - समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7.1.37
अप + मा + य - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अप + मि + य - मयतेरिदन्यतरस्याम् 6.4.70
अप + मि + तुक् + य - ह्रस्वस्य पिति कृति तुक् 6.1.71
अप + मि + त् + य - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अपामित्य + कक् - अपमित्ययाचिताभ्यां कक्कनौ 4.4.21
अपमित्य + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अपमित्यक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अपमित्यक + अम् - अतोऽम् 7.1.24
अपमित्यकम् - अमि पूर्वः 6.1.107
x000D