हरिमन्थकः

सुधाव्याख्या

हरीणां मन्थं जनयति । ‘अन्येष्वपि’ (३.२.१०१) इति डेः-इति मुकुटः । तन्न । ‘हरिमन्थजः’ इति पाठप्रसङ्गात् । हरिभिर्मथ्यते । ‘मन्थ विलोडने (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । स्वार्थे कन् । (ज्ञापि० ५.४.५) ॥