कुल्मासः

सुधाव्याख्या

कुलं मस्यति । ‘मसी परिणामे’ (दि० प० से०) । ‘कर्मण्यण् (३.२.१) । पृषोदरादिः (६.३.१०९) । दन्त्यान्तः इति मुकुटः । कुत्सितो माषः । ‘कुल्माषो यावकः पुंसि’ इति मूर्धन्यान्तेषु रभसः ॥ कुल्माषोऽर्धस्विन्नो यवादिः - इति स्वामी ।-शूकशून्यो यवादिः-इति रक्षितादयः ।