गोधूमः

सुधाव्याख्या

गविति । गुध्यति, गुध्यते, वा । ‘गुध परिवेष्टने' (दि० प० से०) । ‘गुधेरूमः’ (उ० ५.२) । ‘गोधूमो नागरङ्गे यादोषधिव्रीहिभेदयोः’ (इति मेदिनी) ॥