अमरकोशः
आलीढम्
सुधाव्याख्या
एवमालीढम् । ‘आलीढं पादन्यासे शिते त्रिषु' इति विश्वमेदिन्यौ ।
प्रक्रिया
धातुः -
लिहँ आस्वादने
लिह्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
आ + लिह् + क्त
-
कृत्यल्युटो बहुलम् 3.3.113
आ + लिह् + त
-
लशक्वतद्धिते 1.3.8
,
तस्य लोपः 1.3.9
आ + लिढ् + त
-
हो ढः 8.2.31
आ + लिढ् + ध
-
झषस्तथोर्धोऽधः 8.2.40
आ + लिढ्ढ
-
ष्टुना ष्टुः 8.4.41
आ + लिढ
-
ढो ढे लोपः 8.3.13
आ + लीढ
-
ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111
आलीढ + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
आलीढ + अम्
-
अतोऽम् 7.1.24
आलीढम्
-
अमि पूर्वः 6.1.107
Find words details involved in this Prakriya