शिञ्जिनी

सुधाव्याख्या

शिङ्क्ते । ‘शिजि अव्यक्ते शब्दे’ (अ० आ० से०) आवश्यके णिनिः (३.३.१७०) ॥


प्रक्रिया

धातुः -


शिजिँ अव्यक्ते शब्दे
शिज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिन्ज् - इदितो नुम् धातोः 7.1.58
शिंज् - नश्चापदान्तस्य झलि 8.3.24
शिञ्ज् - अनुस्वारस्य ययि परसवर्णः 8.4.58
शिञ्ज् + णिनि - आवश्यकाधमर्ण्ययोर्णिनिः 3.3.170
शञ्ज् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिञ्जिन् + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
शिञ्जिनी - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिञ्जिनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शिञ्जिनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिञ्जिनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68