गाण्डिवः

सुधाव्याख्या

केति । कपिर्हनुमान् ध्वजो ध्वजे वा यस्य । गाण्डिर्ग्रन्थिरस्यास्ति । ‘कृदिकारात्' (ग० ४.१.४५) इति वा ङीष् । ‘गाण्ड्यजगात्-' (५.२.११०) इति वः । अत्र संहितया- ह्रस्वदीर्घयोर्ग्रहः । ‘जिष्णोर्धनुषि कोदण्डे गाण्डीवं गाण्डिवं तथा' इति शाश्वतः । कोदण्डे धनुर्मात्रेऽपि ॥