अक्षौहिणी

सुधाव्याख्या

देति । दशानीकिन्यौऽक्षौहिणी । ऊहः समूहोऽस्त्यस्याः । इनिः (५.२.११५) । अक्षाणामूहिनी । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् । ‘अक्षादूहिन्याम्' (वा० ६.१.८९) इति वृद्धिः । यत्तु सर्वेषामक्षाणामिन्द्रियाणामूहः सविकल्पकं ज्ञानमक्षोहः । सोऽस्त्यस्याः इनिः (५.२.११५) ‘अकृतव्यूहाः-' इति परिभाषया गुणं बाधित्वा वृद्धिः (वा० ६.१.८९) इति मुकुटेनोक्तम् । तन्न । ऊहिनीशब्देन विग्रहे वृद्धेश्चरितार्थत्वात् । ‘अपवादोप्यऽन्यत्र चरितार्थोत्तदाऽन्तरङ्गेण बाध्यते’ । तथा ‘सर्व इह' इत्यत्रापवादोऽपि सवर्णदीर्घो गुणेन बाध्यते । ‘अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः शतैः । संख्या युक्ता सहस्राणि गजानामेकविंशतिः । एवमेव रथानां तु संख्यानं कीर्तितं बुधैः । पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु । संख्यातास्तुरगा स्तज्ज्ञैर्विना रथतुरङ्गमैः । नृणां शतसहस्त्रं तु सहस्राणि नवैव तु । शतानि त्रीणि चान्यानि पञ्चाशच्च पदातयः’ ॥