गुल्मः

सुधाव्याख्या

गुडति, गुड्यते, वा । ‘गुड रक्षायाम्’ (तु० प० से०) । बाहुलकान्मः । डलयोरेकत्वम् । ‘गुल्मः सेनाघट्टभिदोः सेनारक्षणरुग्भिदोः । स्तम्बेऽस्त्रियामामलक्येलावली वस्त्रवेश्मसु’ (इति मेदिनी) ॥