पत्तिः

सुधाव्याख्या

एकेति । एक इभो यस्याम् । एको रथो यस्याम् । त्रयोऽश्वा यस्याम् । पञ्च पदातयो यस्याम् । पद्यते । ‘पद गतौ’ (दि० आ० अ०) । पत्यते वा । ‘पत्लृ गतौ’ (भ्वा० प० अ०) ‘स्त्रियां क्तिन्' (३.३.९४) क्तिच् (३.३.१७४) वा । ‘पतिर्ना पदगे, स्त्रियाम् । गतावेकरथैकेभत्र्यश्वपञ्चपदातिके’ (इति मेदिनी) । भरतः -'एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते’ ॥