गोपः

सुधाव्याख्या

गविति । गोपायति । 'गुपू रक्षणे’ (भ्वा० प० से०) । आयादय आर्धधातुके वा’ (३.१.३१) । अच् (३.१.१३४) । ‘गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि । ग्रामौधाधिकृते पुंसि शारिवाख्यौषधौ स्त्रियाम्’ (इति मेदिनी) ॥