पदिकः

सुधाव्याख्या

पादाभ्यां चरति । ‘पर्पादिभ्यः ष्ठन्’ (४.४.१०) । 'इके चरतौ’ (वा० ६.३.५३) इति पद्भावः ॥ पादातशब्दोऽप्यत्र । 'पदातिपत्तिपादातपादाविकपदाजयः' इत्यमरमाला । यत्तु मुकुटेनोक्तम् —मूलविभुजादिके पादातः -इति । तन्न । ‘पादाभ्यां अतति’ इति विग्रहेण पचाद्यचा गतार्थत्वात् ।