कवचः

सुधाव्याख्या

कं वातं वञ्चति । 'वञ्चु गतौ’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थो वा । मूलविभुजादिकः । ‘कवचो गर्दभाण्डे संनाहं पटहेऽपि च' (इति विश्वमेदिन्यौ) ॥