जगरः

सुधाव्याख्या

जगता गृह्यते । ‘प्रातिपदिकाद्धात्वर्थे-’ (चु० ग० सू०) । इति णिच् (टिलोपश्च) । बाहुलकादरः । जागर्ति अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) वा । ‘जगरः कर्कटो योगः संनाहः स्यादुरश्छदः’ इति वोपालितः ॥