कङ्कटकः

सुधाव्याख्या

कङ्कते । 'ककि लौल्ये (भ्वा० आ० से०) । 'शकादिभ्योऽटन् (उ० ४.८१) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा कं सुखं कटति । ‘कटे वर्षादौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । मूलविभुजादिकः (वा० ३.२.५) वा ॥


प्रक्रिया

धातुः -


ककिँ गतौ
कक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कन्क् - इदितो नुम् धातोः 7.1.58
कंक् - नश्चापदान्तस्य झलि 8.3.24
कङ्क् - अनुस्वारस्य ययि परसवर्णः 8.4.58
कङ्क् + अटन् - शकादिभ्योऽटन् (४.८१) । उणादिसूत्रम् ।
कङ्क् + अट - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कङ्कट + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
कङ्कटक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कङ्कटक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कङ्कटक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कङ्कटक + रु - ससजुषो रुः 8.2.66
कङ्कटक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कङ्कटकः - खरवसानयोर्विसर्जनीयः 8.3.15