दंशनम्

सुधाव्याख्या

दंश्यतेऽनेन । ‘दशि दंशनस्पर्शनयोः’ (चु० आ० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘दंशनं वर्मदंशयोः’ इति हैमः ॥