शीर्षण्यम्

सुधाव्याख्या

शिरसे हितम् । ‘शरीरावयवाद्यत्' (५.१.६) । ‘ये च तद्धिते’ (६.१.६१) इति शिरःशब्दस्य शीर्षन्नादेशः । ‘ये चाभाव–’ (६.४.१६८) इति टिलोपो न । शीर्षण्यं शीर्षरक्षणे । 'शीर्षण्यो विशदे कचे’ इति हैमः ॥