कश्यम्

सुधाव्याख्या

केति । अश्वादेस्ताडनी, ताडनं वा कशा । तामर्हति । दण्डादित्वात् (५.१.६६) यः । ‘कश्यं त्रिषु कशार्हे स्यात्क्लीबं मद्याश्वमध्ययोः’ (इति मेदिनी) ॥