कुम्भः

सुधाव्याख्या

क्विति । कुं भुवमुम्भति । ‘उम्भ पूरणे’ (तु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुम्भो राश्यन्तरे हस्तिमूर्धांशे राक्षसान्तरे । कार्मुके वारनार्यां च घटे क्लीबं तु गुग्गुलौ’ (इति मेदिनी) ॥ पिण्डते । ‘पिडि संघाते’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘पिण्डो बाले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपि । ओड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलाबूखजूरभेदयोः’ (इति मेदिनी) ॥