सम्राज्

सुधाव्याख्या

येनेति । सम्यग् राजति । ‘सत्सू-’ (३.२.६१) इति क्विप् । ‘मो राजि समः क्वौ’ (८.३.२५) ॥ केचित्तु पृथक् त्रीणि नामान्याहुः । राजसूयकर्ता सम्राट् । द्वादशराजमण्डलस्येश्वरोऽपि सम्राट् । सर्वनृपतीनां शासकोऽपि सम्राट् ॥