सुदायः

सुधाव्याख्या

याविति । युतकं योनिसम्बन्धः । तत्र भवम् । ‘तत्र भवः’ । (४.३.५३) इत्यण् । युतयोर्वरवध्वोरिदम् । ‘तस्येदम्' (४.३. १२०) इत्यण् वा । ‘युतकं युगले युक्ते संशयेऽपि च’ इति रभसः । ‘युतकं संशये युगे । नारीवस्त्राञ्चले युक्ते चलनाग्रे च यौतके’ (इति मेदिनी) । ‘यौतकं यौतुकं च तत्’ इति वाचस्पतेरुमध्यमपि । आदिना व्रतभिक्षादिपरिग्रहः । सुदीयते । ‘डुदाञ्’ (जु० उ० अ०) । घञ् (३.३.१९) । युगागमः (७.३.३३) ॥