उपांशुः

सुधाव्याख्या

उपगता अंशवः किरणा अत्र । ‘उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम्’ (इति विश्वहैममे- दिन्यः) ॥


प्रक्रिया

धातुः -


उप + अंशु + जस् - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
उप + अंशु - सुपो धातुप्रातिपदिकयोः 2.4.71
उपांशु - अकः सवर्णे दीर्घः 6.1.101
उपांशु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उपांशु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उपांशु + रु - ससजुषो रुः 8.2.66
उपांशु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उपांशुः - खरवसानयोर्विसर्जनीयः 8.3.15