रहः

सुधाव्याख्या

‘तथा’ शब्दः समुच्चये । रह्यते । ‘रह त्यागे’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । यद्वा रमन्तेऽत्र । ‘देशे ह च’ (उ० ४.२१५) इत्यसुन् । होऽन्तादेशश्च । ‘रहस्तत्त्वे रते गुह्ये’ (इति मेदिनी) । रभसोऽपि- ‘रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् इति ॥