अमरकोशः
उपजापः
सुधाव्याख्या
उपांशु उपनम् ‘जप व्यक्तायां वाचि’ । ‘जप मानसे च’ (भ्वा० प० से०) । घञ् (३.३.१८) ॥
प्रक्रिया
धातुः -
जपँ व्यक्तायां वाचि मानसे च
जप्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
उप +जप् + घञ्
-
भावे 3.3.18
उपजप् + अ
-
हलन्त्यम् 1.3.3
,
लशक्वतद्धिते 1.3.8
,
तस्य लोपः 1.3.9
उपजाप
-
अत उपधायाः 7.2.116
उपजाप + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
उपजाप + स्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
उपजाप + रु
-
ससजुषो रुः 8.2.66
उपजाप + र्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
उपजापः
-
खरवसानयोर्विसर्जनीयः 8.3.15
Find words details involved in this Prakriya