दानम्

सुधाव्याख्या

स्वधनस्य परेभ्यः प्रतिपादनं दानम् ॥ उपायतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । उपायः सामभेदादौ तथैवोपगतौ पुमान्’ (इति मेदिनी) । उपायानां चतुष्टयम् । अन्यत्र सप्तोपाया उक्ताः । ‘साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः’ ॥