सामन्म्

सुधाव्याख्या

सामनम् । ‘साम सान्त्वप्रयोगे’ (चु० उ० से) । बाहुलकात्कनिन् । यद्वास्यति रोषमनेन । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘सतिभ्यां मनिन्मनिणौ’ (उ० ४.१५३) इति मनिन् । मुकुटस्तु–‘सामन्दामन्हेमन्’ इत्यादिना निपात्यते -इत्याह । तन्न । उज्ज्वलदत्तादिषु तादृशसूत्रादर्शनात् । प्रियवचनादिना क्रोधोपशमनं साम । परस्परोपकाराणां दर्शनं गुणकीर्तनम् । सम्बन्धस्य समाख्यानमायत्याः संप्रकाशनम् । वाचां पेशलया साधु तवाहमिति चार्पणम् । इति सामविधानज्ञैः साम पञ्चविधं स्मृतम्’ ॥