प्रभावः

सुधाव्याख्या

भवत्यनेन । ‘श्रीणिभुवः-’ (३.३.२४) इति घञ् । प्रकृष्टो भावः । प्रभवनं वा । भावे घञ् (३.३.१८) ॥ ‘अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणात्यये प्र (प्य)सहनं तत्तेजः समुदाहृतम्’ इति भरतः । कोशो धनम् । दण्डो दमः सैन्यं च । ताभ्यां जातम् । ‘पञ्चम्याम्-’ (६.२.९८) इति डः ।