प्रमीतः

सुधाव्याख्या

प्रमीयते स्म । ‘मीङ् हिंसायाम्’ (क्र्या० आ० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘प्रमीतं वाच्यलिङ्गं स्यात्प्रोषितेऽपि मृतेऽपि च' इति मेदिनी ॥