संज्ञपनम्

सुधाव्याख्या

'मारणतोषणनिशामनेषु ज्ञा’ (भ्वा० प० अ०) । 'ज्ञप मिच्च' (चु० प० से०) इति वा ॥


प्रक्रिया

धातुः -


ज्ञा मारणतोषणनिशामनेषु
सम् + ज्ञा + णिच् - हेतुमति च 3.1.26
सम् + ज्ञा + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सम् + ज्ञा + पुक् + इ - अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.36
सम् + ज्ञा + प् + इ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + ज्ञ + प् + इ - मितां ह्रस्वः 6.4.92
सम् + ज्ञ + प् + इ + ल्युट् - ल्युट् च 3.3.115
सम् + ज्ञप् + ल्युट् - णेरनिटि 6.4.51
सम् + ज्ञप् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सम् + ज्ञप् + अन - युवोरनाकौ 7.1.1
संज्ञपन - नश्चापदान्तस्य झलि 8.3.24
संज्ञपन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
संज्ञपन + अम् - अतोऽम् 7.1.24
संज्ञपनम् - अमि पूर्वः 6.1.107