वैरनिर्यातनम्

सुधाव्याख्या

वैरस्य निर्यातनम् । ‘यत निराकारादौ’ चुरादिः । ल्युट् (३.३.११५) ॥


प्रक्रिया

धातुः -


यतँ निकारोपस्कारयोः
वैर + ङस् + निर् + यात + णिच् + ल्युट् - ल्युट् च 3.3.115
वैर + निर् + यात् + इ + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, अत उपधायाः 7.2.116
वैर + निर् + यात् + यु - णेरनिटि 6.4.51
वैर + निर् + यात् + अन - युवोरनाकौ 7.1.1
वैरनिर्यातन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वैरनिर्यातन + अम् - अतोऽम् 7.1.24
वैरनिर्यातनम् - अमि पूर्वः 6.1.107