अभ्यवस्कन्दनम्

सुधाव्याख्या

अभ्येति । ‘स्कन्दिर्’ (भ्व० प० अ०) । ल्युट् (३.३.११५) ॥


प्रक्रिया

धातुः -


स्कन्दिँर् गतिशोषणयोः
स्कन्द् – इर इत्संज्ञा वाच्या (1.3.7) । वार्तिकम् ।
अभि + अव + स्कन्द् + ल्युट् - ल्युट् च 3.3.115
अभ्यव + स्कन्द् + ल्युट् - इको यणचि 6.1.77
अभ्यव + स्कन्द् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अभ्यव + स्कन्द् + अन - युवोरनाकौ 7.1.1
अभ्यवस्कन्दन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अभ्यवस्कन्दन + अम् - अतोऽम् 7.1.24
अभ्यवस्कन्दनम् - अमि पूर्वः 6.1.107