सर्ववेदस्

सुधाव्याख्या

सेति । सर्वस्वं दक्षिणा यत्र विश्वजिदादौ स येनेष्टः कृतः । सर्वं वेदयति । विद्लृ लाभे’ (तु० उ० अ०) । ण्यन्तः । सर्व विन्दति वा । असुन् (उ० ४.१८९) ॥


प्रक्रिया

धातुः -


विदॢँ लाभे
विद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सर्व + अम् + विद् + असुन् - सर्वधातुभ्योऽसुन् (४.१८९) । उणादिसूत्रम्, उपपदमतिङ् 2.2.19
सर्व + विद् + असुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
सर्व + विद् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सर्व + वेदस् - पुगन्तलघूपधस्य च 7.3.86
सर्ववेदस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सर्ववेदस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सर्ववेदस् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
सर्ववेद + रु - ससजुषो रुः 8.2.66
सर्ववेद + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सर्ववेदः - खरवसानयोर्विसर्जनीयः 8.3.15