स्थपतिः

सुधाव्याख्या

स इति । स यज्वा बृहस्पतिसवनामकयागेनेष्टवान् सन् । स्थानम् स्थः । ‘सुपि स्थः’ (३.२.४) इत्यत्र ‘स्थः’ इति योगविभागात् कः । घञर्थे (वा०३.३.५८) वा । स्थ: पतिः स्थपति: कञ्चुकिन्यपि । जीवेष्टियाजके शिल्पिभेदे ना सत्तमे त्रिषु (इति मेदिनी) ॥