मन्त्रव्याख्याकृत्

सुधाव्याख्या

मेति । मन्त्रस्य वेदस्य व्याख्यानं करोति । क्विप् (३.२.७६) । तुक् (६.१.७१) ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
व्यख्या + अम् + कृ + क्विप् - क्विप् च 3.2.76, उपपदमतिङ् 2.2.19
व्याख्या + कृ + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
व्याख्या + कृ + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्याख्या + कृ - वेरपृक्तस्य 6.1.67
व्याख्या + कृ + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
व्याख्या + कृ + त् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्याख्याकृत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
व्याख्याकृत् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्याख्याकृत् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68