गुरुः

सुधाव्याख्या

अथेति । सोऽध्यापकः । निषेको गर्भाधानमादिर्यस्य सीमन्तोन्नयनादेस्तस्य कर्ता । गृणाति धर्मादि । गिरत्यज्ञानं वा । 'गॄ शब्दे(क्र्या० प० से०) । गॄ निगरणे' (तु० प० से०) वा । कृग्रोरुच्च (उ० १.२४) इत्युः । 'गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि । पुमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि’ (इति मेदिनी) । मनुश्च (२.१४२) निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥