अध्यापकः

सुधाव्याख्या

अध्यापयति । ण्वुल् (३.१.१३३) ॥ 'एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते’ (मनुः २.१४१) ॥


प्रक्रिया

धातुः -


इङ् अध्ययने
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अधि + इ + णिच् + ण्वुल् - हेतुमति च 3.1.26, ण्वुल्तृचौ 3.1.133
अधि + इ + इ + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अधि + ऐ + इ + वु - अचो ञ्णिति 7.2.115
अधि + ऐ + वु - क्रीङ्जीनां णौ 6.1.48
अधि + ए + अक - युवोरनाकौ 7.1.1
अधि + आ + अक - आदेच उपदेशेऽशिति 6.1.45
अधि + आ + पुक् + अक - अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.36
अधि + आ + प् + अक - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अध्यापक - इको यणचि 6.1.77
अध्यापक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अध्यापक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अध्यापक + रु - ससजुषो रुः 8.2.66
अध्यापक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अध्यापकः - खरवसानयोर्विसर्जनीयः 8.3.15