चतुर्भद्रम्

सुधाव्याख्या

सेति । बलेन सहितैर्धर्मादिभिः । चत्वारि भद्राणि श्रेष्ठान्यत्र वृन्दे । यद्वा चत्वारि भद्राणि । ‘दिक्संख्ये संज्ञायाम्’ (२.१.५०) इति समासः । ‘भद्रो वाच्यवच्छ्रेष्ठसाधुनोः’ इति विश्वः ॥