कुहना

सुधाव्याख्या

क्विति । कुहनम् । ‘कुह विस्मापने’ चुराद्यदन्तः । ‘ण्यासश्रन्थो युच्’ (३.३.१०७) । ‘कुहना ग्रामजालं स्यात्’ इति रत्नकोषः । ‘कुहना दम्भचर्यायामीर्ष्यालौ कुहनस्त्रिषु’ (इति मेदिनी) ॥मिथ्यातत्त्वे ईर्यापथस्याचारभेदस्य कल्पना सम्पादना ॥