युनक्ति । ‘युजिर् योगे’ (स० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । युजेन सह । ‘तेन सह-’ (२.२.२८) इति बहुव्रीहिः । ‘वोपसर्जनस्य’ (६.३.८२) इति सहस्य सः । यद्वा योजनम् । युक् । सम्पदादि क्विप् (वा० ३.३.१०८) सह युजा । सयुज्यस्य सयुजो वा भावः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । ब्रह्मणः सायुज्यम्॥ | |