अघमर्षणम्

सुधाव्याख्या

सेति । सर्वाणि एनांसि मानसादिपापानि अपध्वंसयितुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः । जप्यते । ‘जप मानसे च’ (भ्वा० प० से०) । ‘पोरदुपधात्’ (३.१.९८) इति यत् । अघं मर्षति । ‘मृषु सहने’ (भ्वा० प० से०) । सहनमभिभवः । यद्वा मृष्यति । ल्युट् (३.३.११३) । स्त्रियां टित्त्वात् (४.१.१५) ङीष् ॥