पारिकाङ्क्षिन्

सुधाव्याख्या

परिकाङ्क्षितुं शीलमस्य । ‘काक्षि कामे परिवर्जने’ (भ्वा० प० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः । पृषोदरादिः । यद्वा पारमत्रास्ति इनिः (५.२.११५) । पारि ब्रह्मज्ञानं काङ्क्षति॥


प्रक्रिया

धातुः -


काक्षिँ काङ्क्षायाम्
काक्ष्
कान् क्ष् - इदितो नुम् धातोः 7.1.58
कांक्ष् - नश्चापदान्तस्य झलि 8.3.24
काङ्क्ष् - अनुस्वारस्य ययि परसवर्णः 8.4.58
परि + काङ्क्ष् + णिनि - सुप्यजातौ णिनिस्ताच्छिल्ये 3.2.78
परि + काङ्क्ष् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
पारिकाङ्क्षिन् - पृषोदरादीनि यथोपदिष्टम् 6.3.109
पारिकाङ्क्षिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पारिकाङ्क्षिन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पारिकाङ्क्षिन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
पारिकाङ्क्षीन् - सौ च 6.4.13
पारिकाङ्क्षी - नलोपः प्रातिपदिकान्तस्य 8.2.7