व्रतः

सुधाव्याख्या

व्रियते । ‘वृञ्’ (स्वा० उ० से०) ।‘वृड्’ (क्र्या० आ० से०) वा । ‘पृषिरञ्जिभ्यां कित्’ (उ० ३.१११) इत्यतच् बाहुलकाद्गृञ्वृङ्भ्यामपि । कित्वान्न गुणः । यद्वा व्रजन्त्यनेन । स्वर्गम् । ‘गोचरसंचर-’ (३.३.११९) इति घः । पृषोदरादिः । (६.३.१०९) ॥